Original

विराट उवाच ।हन्यामवध्यं यदि तेऽप्रियं चरेत्प्रव्राजयेयं विषयाद्द्विजांस्तथा ।शृण्वन्तु मे जानपदाः समागताः कङ्को यथाहं विषये प्रभुस्तथा ॥ १३ ॥

Segmented

विराट उवाच हन्याम् अवध्यम् यदि ते ऽप्रियम् चरेत् प्रव्राजयेयम् विषयाद् द्विजान् तथा शृण्वन्तु मे जानपदाः समागताः कङ्को यथा अहम् विषये प्रभुः तथा

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
अवध्यम् अवध्य pos=a,g=m,c=2,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽप्रियम् अप्रिय pos=a,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
प्रव्राजयेयम् प्रव्राजय् pos=v,p=1,n=s,l=vidhilin
विषयाद् विषय pos=n,g=m,c=5,n=s
द्विजान् द्विज pos=n,g=m,c=2,n=p
तथा तथा pos=i
शृण्वन्तु श्रु pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
जानपदाः जानपद pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
कङ्को कङ्क pos=n,g=m,c=1,n=s
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
विषये विषय pos=n,g=m,c=7,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
तथा तथा pos=i