Original

ततः शल्यः कृपश्चैव चित्रसेनश्च भारत ।दुःशासनो विकर्णश्च रथानास्थाय सत्वराः ।पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् ॥ ५ ॥

Segmented

ततः शल्यः कृपः च एव चित्रसेनः च भारत दुःशासनो विकर्णः च रथान् आस्थाय स त्वरा पाण्डवानाम् रणे शूरा ध्वजिनीम् समकम्पयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
रथान् रथ pos=n,g=m,c=2,n=p
आस्थाय आस्था pos=vi
pos=i
त्वरा त्वरा pos=n,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
रणे रण pos=n,g=m,c=7,n=s
शूरा शूर pos=n,g=m,c=1,n=p
ध्वजिनीम् ध्वजिनी pos=n,g=f,c=2,n=s
समकम्पयन् संकम्पय् pos=v,p=3,n=p,l=lan