Original

ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः ।निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे ॥ १४ ॥

Segmented

ततस् चतुर्दिशम् सैन्यैः द्रुपदस्य अभिसंवृतः निर्दहन् क्षत्रिय-व्रातान् द्रोणः पर्यचरद् रणे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चतुर्दिशम् चतुर्दिशम् pos=i
सैन्यैः सैन्य pos=n,g=m,c=3,n=p
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part
निर्दहन् निर्दह् pos=va,g=m,c=1,n=s,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
व्रातान् व्रात pos=n,g=m,c=2,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पर्यचरद् परिचर् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s