Original

अथान्यैर्दशभिर्भल्लैः शिरांस्येषां न्यपातयत् ।रोषसंरक्तनेत्राणि संदष्टौष्ठानि भूतले ।तानि वक्त्राणि विबभुर्व्योम्नि तारागणा इव ॥ २७ ॥

Segmented

अथ अन्यैः दशभिः भल्लैः शिरांस्य् एषाम् न्यपातयत् रोष-संरक्त-नेत्राणि संदष्ट-ओष्ठानि भू-तले तानि वक्त्राणि विबभुः व्योम्नि तारा-गणाः इव

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
शिरांस्य् शिरस् pos=n,g=n,c=2,n=p
एषाम् इदम् pos=n,g=m,c=6,n=p
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan
रोष रोष pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
नेत्राणि नेत्र pos=n,g=n,c=2,n=p
संदष्ट संदंश् pos=va,comp=y,f=part
ओष्ठानि ओष्ठ pos=n,g=n,c=2,n=p
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
तानि तद् pos=n,g=n,c=1,n=p
वक्त्राणि वक्त्र pos=n,g=n,c=1,n=p
विबभुः विभा pos=v,p=3,n=p,l=lit
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
तारा तारा pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i