Original

तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः ।अर्जुनस्य रथोपस्थं पूरयामासुरञ्जसा ॥ ५ ॥

Segmented

तैः तु क्षिप्ताः शरा राजन् कार्तस्वर-विभूषिताः अर्जुनस्य रथोपस्थम् पूरयामासुः अञ्जसा

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
तु तु pos=i
क्षिप्ताः क्षिप् pos=va,g=m,c=1,n=p,f=part
शरा शर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
कार्तस्वर कार्तस्वर pos=n,comp=y
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
रथोपस्थम् रथोपस्थ pos=n,g=m,c=2,n=s
पूरयामासुः पूरय् pos=v,p=3,n=p,l=lit
अञ्जसा अञ्जसा pos=i