Original

चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै ।पुष्येण संप्रयातोऽस्मि श्रवणे पुनरागतः ।शिष्ययोर्वै गदायुद्धं द्रष्टुकामोऽस्मि माधव ॥ ५ ॥

Segmented

चत्वारिंशद् अहानि अद्य द्वे च मे निःसृतस्य वै पुष्येण सम्प्रयातो ऽस्मि श्रवणे पुनः आगतः शिष्ययोः वै गदा-युद्धम् द्रष्टु-कामः ऽस्मि माधव

Analysis

Word Lemma Parse
चत्वारिंशद् चत्वारिंशत् pos=n,g=f,c=1,n=s
अहानि अहर् pos=n,g=n,c=1,n=p
अद्य अद्य pos=i
द्वे द्वि pos=n,g=n,c=1,n=d
pos=i
मे मद् pos=n,g=,c=6,n=s
निःसृतस्य निःसृ pos=va,g=m,c=6,n=s,f=part
वै वै pos=i
पुष्येण पुष्य pos=n,g=m,c=3,n=s
सम्प्रयातो सम्प्रया pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
श्रवणे श्रवण pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
शिष्ययोः शिष्य pos=n,g=m,c=6,n=d
वै वै pos=i
गदा गदा pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
द्रष्टु द्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s