Original

तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः ।सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ॥ २८ ॥

Segmented

तम् अनुप्लवते वायुः प्लवन्तम् पुत्रम् आत्मनः सूर्य-दाह-भयात् रक्षन् तुषार-चय-शीतलः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अनुप्लवते अनुप्लु pos=v,p=3,n=s,l=lat
वायुः वायु pos=n,g=m,c=1,n=s
प्लवन्तम् प्लु pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सूर्य सूर्य pos=n,comp=y
दाह दाह pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
तुषार तुषार pos=n,comp=y
चय चय pos=n,comp=y
शीतलः शीतल pos=a,g=m,c=1,n=s